६३६. बडादशै तथा विजया दशमी २०८३ को हार्दिक मंगलमय शुभकामना

बडादशै "बिजया दशमी" २०८३ को हार्दिक मंगलमय शुभकामना 

शुभ बडादशैं २०८३ 

अथ सप्तश्लोकी दुर्गा 

शिव उवाच -

देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नत: ।।
देव्युवाच -
श्रृणु देव प्रवक्षामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहानाप्यम्बास्तुति:प्रकाश्यते ।।
ॐअस्य श्री दुर्गा सप्तश्लोकीस्तोत्रम्स्न्त्रस्य नारायण ॠषि:, अनुष्टुप् छन्द:, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवता:, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोग: ।

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ।।
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: 
स्वस्थ्यै: स्मृति मतिमतीव शुभां ददासि ।
दारिद्र्यदु:खभयहारिणि का त्वदन्या 
सर्वोपकारकरणाय सदाSSर्द्रचित्ता ।।

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोSस्तु ते ।।
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोSस्तु ते ।।
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयभ्यस्त्राहि नो देवि दुर्गे देवि नमोSस्तु ते ।।
रोगानशेषानपहंसि तुष्टा 
रुष्टा तु कामान् सकलानभीष्टान् ।।
त्वामाश्रितानां न विपन्नराणां 
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ।।

सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ।।
       ॐ सत्या सन्तु हरये नम: जय अम्बे जय जगदम्बिके 🕉️

सिद्धकुञ्जिकास्तोत्रम् 

शिव उवाच 

श्रृणु देवि प्रवक्ष्यामि कुञ्जिजास्तोत्रमुत्तनम् ।
येन मन्त्रप्रभावेन चण्डीजाप: शुभो भवेत् ।।
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ।।
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ।।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । 
पाठमात्रेण संसिद्धयेत् कुञ्जिकास्तोत्रमुत्तमम् ।।

सिदध्कुञ्जिकास्तोत्रम् 

अथ मन्त्र: 

ॐ ऎं ह्रीं क्लीं चामुण्डायै विच्चे ।। ॐ ग्लौं हुं क्लीं जूं स: ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऎं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ।। इतिमन्त्र: ।। नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनि । नम: कैटभहारिण्यै नमस्ते महिषार्दिनी ।।१।। नमस्ते शुम्भहन्त्रै च निशुम्भासुरघातिनि । जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ।।२।। ऎंकारि सृष्टिरुपायै ह्रीकारी प्रतिपालिका । क्लींकारी कामरुपिण्यै बीजरुपे नमोSस्तु ते ।।३।। चामुण्डा चण्डघाती च यैकारी वरदायिनी । विच्चे चाभयदा नित्यं नमस्ते मन्त्ररुपिणि ।।४।। धां धीं धूं धूर्जटे: पत्नी वां वीं वूं वागधिश्वरी । क्रां क्रीं क्रू कालिका देवी शां शीं शूं मे शुभं कुरु ।।५।। हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी । भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नम: ।।६।। अं कं चं टं तं पं यं शं वीं दुं ऎं वीं हं क्षं  । धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ।।७।। पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । सां सीं सूं सप्तशति देव्या मन्त्रसिद्धिं कुरुष्व मे ।। ८।। इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे । अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ।। यस्तु कुञ्जिकया देवी हिनां सप्तशति पठेत् । न तस्य जायते सिद्धिररण्ये रोदनं यथा ।।
श्री रुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सत्या: सन्तु: हरये नम: जय अम्बे जय श्री जगदम्बिके ।। ॐ तत्सत् ।।

क्षमा - प्रार्थना 

ॐ अपराधसहस्राणि क्रियन्तेSहर्निशं मया । 
दासोSयामिति मां मत्वा क्षमस्व परमेश्वरि ।।
आवाहनं न जानामि न जानामि विसर्जनम्  ।
पूजां चैव नजानामि क्षम्यतां परमेश्वरि ।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवी परिपूर्णं तदस्तु मे ।।
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादय: सुरा: ।।
सापराधोSस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योSहं यथेच्छसि तथा कुरु ।।
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूननधिकं कृतम् ।
तत्सर्वं क्ष्यम्यतां देवि प्रसिद परमेश्वरि ।।
कामेश्वरि जगन्मात: सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ।।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ।।

बडादशैं बिजया दशमी 2083 को हार्दिक मंगलमय शुभकामना हरि: ॐ तत्सत्  

📝 वसन्तराज अधिकारी 
ज्योतिष तथा वैदिक कर्मकाण्ड अध्ययनरत माध्यमिक तह 
अधिवक्ता तथा पुर्व उपसचिव, नेपाल सरकार 
स्थायी ठेगाना : घोराही उपमहानगरपालिका वार्ड नं. १७ पनौंरा, दाङ, नेपाल । 




Comments