५८४. श्री विष्णुसहस्रनामस्तोत्रम्

श्री विष्णुसहस्रनामस्तोत्रम्    

ॐ नमो भगवतो वासुदेवाय 🕉️

 
हरिशयनी एकादशी (तुलसी रोप्ने) चतुर्मास व्रत आरम्भ शुभ पुण्य दिनको सबैमा सप्रेम हार्दिक शुभकामना !!!

ॐश्रीपरमात्मने नम:

 
अथ श्रीविष्णुसहस्रनामस्तोत्रम्


ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।


वैशम्पायन उवाच

 
श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: ।
युधिष्ठिर: शान्तनवं पुनरेवाभ्यभाषत ।१।


युधिष्ठिर उवाच

 

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्त: कं कमर्चन्त: प्राप्नुयुर्मानवा: शुभम् ।२।


को धर्म: सर्वधर्माणां भवत: परमो मत: ।
किं जन्ममुच्यते जन्तुर्जन्मसंसारबन्धनात् ।३।


भीष्म उवाच

 
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तम् ।
स्तुवन्नामसहस्रेण पुरुष: सततोत्थित: ।४।


तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५।


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदु:खतिगो भवेत् ।६।


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भुतं सर्वभूतभवोद्भवम् ।७।


एष मे सर्वधर्माणां धर्मोSधिकतमो मत: ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरचेन्नर: सदा ।८।


परमं यो महत्तेज: परमं यो महत्तप: ।
परमं यो महद्ब्रम्ह परमं य: परायणम् ।९।


पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
देवतं देवतानां च भूतानां योSव्यय: पिता ।१०।


यत: सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ।११।


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम् ।१२।


यानि नामानि गौणानि विख्यातानि महात्मन: ।
ॠषिभि: परिगीतानि तानि वक्ष्यामि भूतये ।१३।  

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।    भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।१४।

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।          अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।१५।  

 योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।        नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।१६।  

 सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।१७।  

 स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।  अनादि-निधनो धाता विधाता धातुरुत्तमः ।१८।

 अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।    विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।१९।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।    प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।२०।  

 ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।  हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।२१।  

 ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।    अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।२२।

 सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।            अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।२३।  

 अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।२४।

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।      अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।२५।

 रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।      अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।२६। 

 सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।        वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।२७।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।२८। 

 भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।  अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।२९। 

  उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।     अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।३०।

  वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।            अति-इंद्रियो महामायो महोत्साहो महाबलः ।३१।

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।३२।


महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।३३।


मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।३४।


अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।३५।


गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।३६।


अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।३७।


आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।३८।


सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।३९।


असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।४०।


वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।४१।


सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।४२।


ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।४३।


अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।४४।


भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।४५।


युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।४६।


इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।४७।


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।४८।


स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।४९।


अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।५०।


पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।५१।


अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।५२।


विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।५३।


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।५४।


व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।५५।


रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।५६।


वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।५७।


ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।५८।


विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।५९।


अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।६०।


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।६१।


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।६२।


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।६३।


धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।६४।


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ।६५।


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।६६।


सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।६७।


जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।६८।


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।६९।


महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।७०।


महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।७१।


वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।७२।


भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।७३।


सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।७४।


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।७५।


शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।७६।


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।७७।


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।७८।


स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।७९।


उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।८०।


अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।८१।


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।८२।


कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।८३।


ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।८४।


महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।८५।


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।८६।


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।८७।


सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।८८।


भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।८९।


विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।९०।


एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।९१।


सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।९२।


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।९३।


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।९४।


चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।९५।


समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।९६।


शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।९७।


उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।९८।


सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।९९।


कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।१००।


सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।१०१।


सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।१०२।


अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।१०३।


भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।१०४।


धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।१०५।


सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।१०६।


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।१०७।


अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।१०८।


सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।१०९।


अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।११०।


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।१११।


उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।११२।


अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।११३।


अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।११४।


आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।११५।


प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।११६।


भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।११७।


यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।११८।


आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।११९।


शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।१२०।

सर्वप्रहरणायुध ॐ नमः इति ।

इतीदं कीर्तनियस्य केशवस्य महात्मन: ।
नान्मां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ।।१२१।


य इदं सहस्त्रं दिव्यानामशेषेण प्रकीर्तियत् ।
नाशुभं प्राप्नुयात्किश्चित्सोSमुत्रेह च मानव: ।१२२।


वेदान्तगो ब्राह्मणो: स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्ध: स्याच्छुद्र: सुखमाप्नुयात् ।१२३।


धर्मार्थी प्राप्नुयार्द्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामनवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ।१२४।


भक्तिमान्य: सदोत्थाय शुचिस्तद्गतमानस: ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तितेत् ।१२५।


यश: प्रप्नोति विपुलं ज्ञातिप्रधान्तमेव च ।
अचलां श्रियमाप्नोति श्रेय: प्राप्नुत्यनुत्तम् ।१२६।


न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दन्ति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वित: ।१२७।


न भयं क्वचिदाप्नोति वीर्य तेचश्च विन्दति ।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्यतापन्न आपद्: ।१२८।


दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वित: ।१२९।


वासुदेवाश्रयो मर्त्यो वासुदेवपरायण: ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ।१३०।


न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ।१३१।


इमं स्तवमधीयान: श्रद्धाभक्तिसमन्वित: ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभि: ।१३२।


न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ।१३३।


द्यौ: सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधि: ।
वासुदेवस्य वीर्येण विधृतानि महात्मन: ।१३४।


ससुरासुरगन्धर्व सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ।१३५।


इन्द्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: ।
वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ।१३६।


सर्वगमानामाचार: प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत: ।१३७।


ॠषय: पितरो देवा महाभूतानि धातव: ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ।१३८।


योगो ज्ञानं तथा सांख्यं विद्या: शिल्पादि कर्म च ।
वेदा: शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ।१३९।


एको विष्णुर्महद्भुतं पृथग्भूतान्यनेकश: ।
त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्यय: ।१४०।


इमं स्तवं भगवतो विष्णुर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुष: श्रेय: प्राप्तुं सुखानि च ।१४१।


विश्वेश्र्वरमजं देवं जगत: प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ।१४२।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्रयां वैयासिक्यामानुशासनिके पर्वाणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ।

हरि: ॐ तत्सत्   हरि: ॐ तत्सत्हरि: ॐ तत्सत्

प्रकाशक एवं मुद्रक :
गीताप्रेस गोरखपुर


टङ्कन : वसन्तराज अधिकारी
       नयाँ दिल्ली, भारत ।


दिनाङ्क : बुधबार, साउन २, २०८१ तदनुसार July 17, 2024.

Comments