२०९. श्री विष्णुसहस्रनाम स्तोत्र पाठ :

ॠषि तर्पणी, रक्षा बन्धन, जनैपूणिर्मा यहीँ मिति २०७८ भाद्र ६ गते आइतबारको सन्दर्भमा श्रीविष्णुसहस्रनाम पाठ :

* सुख, ऐश्वर्य र  संपन्नता प्रदान गर्ने विष्णुसहस्रनाम (१००० नाम) को पाठ...……………      

✍️ वसन्त राज अधिकारी
                         घोराही उपमहानगरपालिका, दाङ                                                  @ कीर्तिपुर, काठमाण्डौं, नेपाल                                    

श्रीहरि भगवान विष्णु को १००० नाम (Vishnu 1000 Names) को महिमा अवर्णनीय छ । यि नाम को संस्कृत रूप विष्णुसहस्रनाम (Vishnu Sahasranamam Stotram) को प्रतिरूप मा विद्यमान छन् । विष्णुसहस्रनाम का पाठ तथा श्रवण गर्ने व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता, सफलता, आरोग्य र सौभाग्य प्राप्त हुन्छ तथा मनोकामना को पुर्ण हुन्छ । 


भगवान विष्णु को १००० नाम  (Vishnu Sahasranamam Stotram) - 


ॐ नमो भगवते वासुदेवाय नम: 

 

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।

भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। १ ।।

 

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।

अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। २ ।।

 

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।

नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। ३ ।।

 

सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।

संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। ४ ।।

 

स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।

अनादि-निधनो धाता विधाता धातुरुत्तमः ।। ५ ।।

 

अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। ६ ।।

 

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। ७ ।।

 

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। ८ ।।

 

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। ९ ।।

 

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। १० ।।

 

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।

वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। ११ ।।

 

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। १२ ।।

 

रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।

अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। १३ ।।

 

सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।

वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। १४।।

 

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।

चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। १५ ।।

 

भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। १६ ।।

 

उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।

अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। १७ ।।

 

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।

अति-इंद्रियो महामायो महोत्साहो महाबलः ।। १८ ।।

 

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।

अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। १९ ।।

 

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। २० ।।

 

मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। २१ ।।

 

अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। २२ ।।

 

गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।

निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। २३ ।।

 

अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।

सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। २४ ।।

 

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।

अहः संवर्तको वह्निः अनिलो धरणीधरः ।। २५ ।।


सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।

सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। २६ ।।

 

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। २७।।

 

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।

वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। २८ ।।

 

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।

नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। २९ ।।

 

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।

ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। ३० ।।

 

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। ३१ ।।

 

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।

कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। ३२ ।।

 

युगादि-कृत युगावर्तो नैकमायो महाशनः ।

अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। ३३ ।।

 

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।

क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। ३४ ।।

 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। ३५ ।।

 

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। ३६ ।।

 

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। ३७ ।।

 

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।

महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। ३८ ।।

 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। ३९ ।।

 

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।

महीधरो महाभागो वेगवान-अमिताशनः ।। ४० ।।

 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

करणं कारणं कर्ता विकर्ता गहनो गुहः ।। ४१ ।।

 

व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।

परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। ४२ ।।

 

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।

वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। ४३ ।।

 

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। ४४।।

 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। ४५ ।।

 

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।

अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। ४६ ।।


अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।

नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। ४७ ।।

 

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। ४८।।

 

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।

मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। ४९ ।।

 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। ५० ।।


धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।

अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। ५१ ।।

 

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। ५२ ।।

 

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। ५३ ।।

 

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।

विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। ५४ ।।

 

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।

अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। ५५ ।।

 

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। ५६ ।।

 

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। ५७ ।।

 

महावराहो गोविंदः सुषेणः कनकांगदी ।

गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। ५८ ।।

 

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।

वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। ५९ ।।

 

भगवान भगहानंदी वनमाली हलायुधः ।

आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। ६० ।।

 

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। ६१ ।।

 

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।

संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। ६२ ।।

 

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। ६३ ।।

 

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। ६४ ।।

 

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। ६५।।

 

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। ६६ ।।

 

उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। ६७ ।।

 

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। ६८ ।।

 

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। ६९ ।।

 

कामदेवः कामपालः कामी कांतः कृतागमः ।

अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। ७० ।।

 

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। ७१ ।।

 

महाक्रमो महाकर्मा महातेजा महोरगः ।

महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। ७२ ।।

 

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। ७३ ।।

 

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। ७४ ।।


सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। ७५ ।।

 

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।

दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। ७६ ।।

 

विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। ७७ ।।

 

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।

लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। ७८ ।।

 

सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।

वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। ७९ ।।

 

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। ८० ।।


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। ८१ ।।

 

चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।

चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।। ८२ ।।

 

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। ८३ ।।

 

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।

इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। ८४ ।।

 

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।

अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। ८५ ।।

 

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

महाह्रदो महागर्तो महाभूतो महानिधः ।। ८६ ।।

 

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।

अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। ८७ ।।

 

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। ८८ ।।

 

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।

अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। ८९ ।।

 

अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। ९० ।।

 

भारभृत्-कथितो योगी योगीशः सर्वकामदः ।

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। ९१ ।।

 

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।

अपराजितः सर्वसहो नियंता नियमो यमः ।। ९२ ।।

 

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।

अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। ९३ ।।

 

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।

रविर्विरोचनः सूर्यः सविता रविलोचनः ।। ९४ ।।

 

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। ९५।।

 

सनात्-सनातनतमः कपिलः कपिरव्ययः ।

स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। ९६ ।।

 

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। ९७ ।।

 

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। ९८ ।।

 

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।

वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। ९९ ।।

 

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।

चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। १०० ।।

 

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।

जननो जनजन्मादि: भीमो भीमपराक्रमः ।। १०१ ।।

 

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। १०२ ।।

 

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। १०३ ।।

 

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।

यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। १०४ ।।

 

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।

यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। १०५ ।।

 

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।

देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। १०६ ।।

 

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।

रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। १०७ ।।

 

सर्वप्रहरणायुध ॐ नमः इति।

 

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।

श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु ।


   ~~~~~~इतिश्री ~~~~~~                                                                                                                                                📝 बृष सक्रान्ति २०७७ जेष्ठ १ बिहिवार बन्दाबन्दी "लकडाउन" श्रीविष्णुसहस्रनाम पाठ: फेसबुकवाट प्रत्यक्ष प्रशारण मार्फत Live गरेको ।

✍️ स्रोत सामग्री : www.goole.com                                          

Comments